मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् १९

संहिता

उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्य॑ः ।
अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्यः । श॒र॒णे । दि॒वः । ज्योतिः॑ । अ॒यं॒स्त॒ । सूर्यः॑ ।
अ॒ग्निः । न । शु॒क्रः । स॒म्ऽइ॒धा॒नः । आऽहु॑तः ॥

सायणभाष्यम्

सूर्यः सुवीर्यः सुष्ठु सर्वस्यप्रेरकः स्यः समित्रोवरुणश्च दिवोद्योतमानस्यादित्यस्य शरणे स्थाने नभसि ज्योतिरात्मीयं तेजः उदयंस्त उद्यच्छति ऊर्ध्वं गमयति सर्वत्र विस्तारयतीत्यर्थः । यमेर्लुङिरूपम् । ततः सः अग्निर्न शुक्रः अग्निरिव दीप्यमानः समिधानः हविर्भिः समिध्यमानः आहुतः सर्वैराहूतस्तिष्ठति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४