मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् २०

संहिता

वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।
ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥

पदपाठः

वचः॑ । दी॒र्घऽप्र॑सद्मनि । ईशे॑ । वाज॑स्य । गोऽम॑तः ।
ईशे॑ । हि । पि॒त्वः । अ॒वि॒षस्य॑ । दा॒वने॑ ॥

सायणभाष्यम्

हे स्तोतः दीर्घप्रसद्मनि दीर्घं प्रततं विस्तृतं सद्म सदनं यस्मिन्यज्ञे वचः मित्रं वरुणं च स्तुहि वक्तेर्लेट्यडागमः । सवरुणः गोमतः पशुमतः वाजस्या- न्नस्य ईशे ईष्टे स्वामीभवति । केवलं स्वामी न भवति किन्तु अविषस्य महतः प्रीतिकारिणः पित्वोन्नस्य दावने दानायच ईशे समर्थोभवति ये स्तोत्रंकुर्वन्ति तेभ्योन्नंददातीत्यर्थः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४