मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् २१

संहिता

तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।
भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥

पदपाठः

तत् । सूर्य॑म् । रोद॑सी॒ इति॑ । उ॒भे इति॑ । दो॒षा । वस्तोः॑ । उप॑ । ब्रु॒वे॒ ।
भो॒जेषु॑ । अ॒स्मान् । अ॒भि । उत् । च॒र॒ । सदा॑ ॥

सायणभाष्यम्

सूर्यं सुवीर्यं तत् वारुणं मैत्रच्च तेजः उभे रोदसी द्यावापृथिव्यौ च । दोषा सुपांसुलुगिति द्वितीयायालुक् कालाध्वनोरितिद्वितीया । रात्रौ वस्तोः अ- हनि चाहमुपब्रुवे उप्स्तौमि त्वं स्तूयमानोवरुणः भोजेषु दातृष्वस्मान् सदाभ्युच्चर सर्वदाभिमुखंप्रेरय दातृष्वेतेषां दानेष्वस्मान् पुरोभाविनः कुर्वित्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५