मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् २२

संहिता

ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।
रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥

पदपाठः

ऋ॒ज्रम् । उ॒क्ष॒ण्याय॑ने । र॒ज॒तम् । हर॑याणे ।
रथ॑म् । यु॒क्तम् । अ॒स॒ना॒म॒ । सु॒ऽसाम॑नि ॥

सायणभाष्यम्

सुषाम्णः पुत्रोवरुर्नामराजा सयद्दानं प्रादाद्विश्वमनसे तदसौ विश्वमनाऋषिरनयाचष्टे उक्षण्यायने उक्षनामाकश्चिद्वरोः पूर्वजः तस्य गोत्रापत्ये । उक्षणशब्दात् ण्यः तदन्तात् फक् प्रत्ययः एतौ छान्दसौ वृद्ध्यभावोपि संज्ञापूर्वकोविधिरनित्यइतिनभवति । तस्य गोत्रापत्ये हरयाणे शत्रुजीवितै- श्वर्यादि हरणशीले याने एतादृशे सुषामणि बहुवत्पितृशब्देन पुत्रोभिधीयते सुषाम्णः पुत्रे वरौ राजनि ददति सति किमभूत् ऋज्रं ऋजुगामिनं रज- तं रजतमयं रजतसदृशं वा युक्तं अश्वाभ्यांयुक्तं रथमसनाम एतेषां मित्रादीनां प्रसादाद्वयं संभक्तवन्तोलब्धवन्तोभूम ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५