मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् २३

संहिता

ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।
उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥

पदपाठः

ता । मे॒ । अश्व्या॑नाम् । हरी॑णाम् । नि॒ऽतोश॑ना ।
उ॒तो इति॑ । नु । कृत्व्या॑नाम् । नृ॒ऽवाह॑सा ॥

सायणभाष्यम्

ऋषिः प्रतिगृहीतावश्वावाह हरीणां हरितवर्णानामश्व्यानामश्वसंघानां मध्ये नितोशना नितोशनौ तोशतिर्हिंसाकर्मा शत्रूणामत्यन्तं बाधकृतौ उतो अपिच कृत्व्यानां युद्धकर्मणि कुशलानांच कुशलमिति बाधकौ नृवाहसा नृवाहसौ आयुधनेतृणां मनुष्याणां वोढारौ ता तावश्वौ मे मह्यं नु क्षिप्रं सौषाम्णेन वरुणा दत्तौ भवेतम् ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५