मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २५, ऋक् २४

संहिता

स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।
म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥

पदपाठः

स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती ।
म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥

सायणभाष्यम्

ऋषिरिदानीं तावश्वावग्रहीषमित्याह स्मदभीशू स्मत् सुमत् उकारलोपश्छान्दसः शोभनरज्जुयुक्तौ यद्वा शोभनस्वशरीरकान्ती कशावन्ता कशाव- न्तौ कशायुक्तौ विप्रा विप्रौ मेधाविनामुचितौ मेधावी स्तोता यथा स्तुत्यं देवं स्तुतिभिः प्रीणयति तद्वत् सन्तोषकौ महोमहतः सौषाम्णस्य वरोः संबन्धिनौ वाजिनौ शीघ्रगमनवन्तौ अर्वन्ता अर्वन्तौ द्वावश्वौ सचाशह युगपदेव नविष्ठया नवतरया मती मत्या स्तुत्या मित्रादीन् स्तुवन् असनं विश्वमना अहं समभजं प्रत्यग्रहीषमित्यर्थः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५