मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् २

संहिता

यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या ।
अवो॑भिर्याथो वृषणा वृषण्वसू ॥

पदपाठः

यु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्णे॑ । म॒हे । तने॑ । ना॒स॒त्या॒ ।
अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥

सायणभाष्यम्

ऋषिर्वरुंराजानं संबोध्य आह हे नासत्या नासत्यौ न विद्यते असत्यमनयोरिति नासत्यौ वृषणा कामानां वर्षितारौ वृषण्वसू वर्षणशीलवसुमन्तौ अश्विनौ युवं युवां सुषाम्णे सुषामाख्यराज्ञे मम पित्रे अस्मै महे महते तने तनोतीतितनं धनं धनाय । क्रियार्थोपपदस्येति चतुर्थीतस्मै धनं दातुं पुरा यथा आगच्छतम् तद्वन्मत्द्यमपि धनं दातुं अवोभिः पालनैः सह याथः युवामायातमिति । हे वरो वरुनामकराजन्नेवं ब्रूहीतिऋषिर्वदति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६