मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् ४

संहिता

आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा ।
उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥

पदपाठः

आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ ।
उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥

सायणभाष्यम्

हे नरा सर्वस्य नेतारौ अश्विना अश्विनौ वां युवयोः वाहिष्ठोवोढृतमः श्रुतोविश्रुतः सर्वत्रप्रसिद्धोरथः आयातु अस्मदीयं यज्ञं प्रत्यागच्छतु तेन रथेन युवामागत्य तुरस्य क्षिप्रं स्तोत्रं कुर्वतस्तस्य स्तोमान् त्रिवृत्पच्चदशादि स्तोमान् श्रिये तस्यैश्वर्यप्रदानाय उपदर्शथः पश्यतिर्ज्ञानकर्मा जानीतम् । दृशेर्लङि व्यत्ययेनानादेशः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६