मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् ५

संहिता

जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू ।
यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ॥

पदपाठः

जु॒हु॒रा॒णा । चि॒त् । अ॒श्वि॒ना॒ । आ । म॒न्ये॒था॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
यु॒वम् । हि । रु॒द्रा॒ । पर्ष॑थः । अति॑ । द्विषः॑ ॥

सायणभाष्यम्

हे वृषण्वसू वर्षणशीलधनवन्तौ अश्विना अश्विनौ जुहुराणा चित् हूर्छाकौटिल्ये हुर्छः सनोलुक् छलोपश्चेत्यानच् प्रत्ययः कुटिलान्कर्मविघ्नकारिणः मायाविनः शत्रूना आभिमुख्येन मन्येथाम् जानीतम् । ततः हे रुद्राः संग्रामे रोदनशीलौ रुदन्तौवा अश्विनौ युवं हिरवधारणे युवामेव द्विषोद्वेषका- रिणः तान् शत्रून् अतिपर्षथः अतीत्य संक्लेशयतं हतमित्यर्थः । पृषु हिंसासंक्लेशनयोरिति भौवादिकः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६