मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् ६

संहिता

द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभि॑ः परि॒दीय॑थः ।
धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती॑ ॥

पदपाठः

द॒स्रा । हि । विश्व॑म् । आ॒नु॒षक् । म॒क्षुऽभिः॑ । प॒रि॒ऽदीय॑थः ।
धि॒य॒म्ऽजि॒न्वा । मधु॑ऽवर्णा । शु॒भः । पती॒ इति॑ ॥

सायणभाष्यम्

दस्रा दस्रौ सर्वैर्दर्शनीयौ यद्वा दसुउपक्षये शत्रूणामुपक्षपयितारौ अश्विनौ कीदृशौ धियंजिन्वा धियं जिन्वौ जिविः प्रीणनार्थः कर्माणि प्रीणयन्तौ म- धुवर्णौ सर्वेषां मादनशीलशरीरकान्ती ये युवयोः रूपं पश्यन्ति ते तत्रैव हष्टाभवन्तीत्यर्थः तादृशौ शुभस्पती उदकस्यपालयितारौ तादृशौ युवां मक्षुभिः शीघ्रगमनैरश्वैः आनुषक् अनुषक्तं यथाभवति तथा विश्वं ऋत्विग्भिर्हविर्भिश्च व्याप्तं हिरवधारणे अस्मदीयं यज्ञमेव प्रति परिदीयथः दीय- तिर्गतिकर्मा परितआगच्छतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७