उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा॑ स॒ह ।
म॒घवा॑ना सु॒वीरा॒वन॑पच्युता ॥
उप॑ । नः॒ । या॒त॒म् । अ॒श्वि॒ना॒ । रा॒या । वि॒श्व॒ऽपुषा॑ । स॒ह ।
म॒घऽवा॑ना । सु॒ऽवीरौ॑ । अन॑पऽच्युता ॥
हे अश्विना अश्विनौ विश्वपुषा विश्वस्य सर्वस्य पोषकेण राया धनेनसह नोस्मदीयं यज्ञमुपयातं उपागच्छतम् यज्ञमागत्य धनमस्मभ्यंप्रयच्छतमि- तिभावः । किमनयोर्धनमस्तीत्यतआह-मघवाना मघवानौ मंहनीयधनवन्तौ सुवीरौ शोभनसामर्थ्योपेतौ । यद्वा वीराः समर्थाः शत्रवः तद्वन्तौ । तथापि अनपच्युता तैरपच्यावनीयौ न भवतः । तौ यज्ञं प्रत्यागच्छतम् ॥ ७ ॥