मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् ९

संहिता

व॒यं हि वां॒ हवा॑मह उक्ष॒ण्यन्तो॑ व्यश्व॒वत् ।
सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ॥

पदपाठः

व॒यम् । हि । वा॒म् । हवा॑महे । उ॒क्ष॒ण्यन्तः॑ । व्य॒श्व॒ऽवत् ।
सु॒म॒तिऽभिः॑ । उप॑ । वि॒प्रौ॒ । इ॒ह । आ । ग॒त॒म् ॥

सायणभाष्यम्

उक्षण्यन्तः धनादिसेक्तारावात्मनइच्छन्तोवयं वांहि धनादीनां प्रत्तारौ युवामेव हवामहे तल्लाभार्थमाह्वयामः । तत्रदृष्टान्तः-व्यश्ववत् यथास्माकं पिता युवामेव स्तुत्वा धनमलभत तद्वत् । हे विप्रा मेधाविनौ अश्विनौ सुमतिभिः अस्माभिः क्रियमाणैः कल्याणैः स्तोत्रैः सह । यद्वा सुमतिभिः शो- भनाभिरनुग्रहबुद्धिभिः सह इहास्मिन्यागदिने उपागतम् उपागच्छतम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७