मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् ११

संहिता

वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे॑ अ॒स्य वे॑दथः ।
स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥

पदपाठः

वै॒य॒श्वस्य॑ । श्रु॒त॒म् । न॒रा॒ । उ॒तो इति॑ । मे॒ । अ॒स्य । वे॒द॒थः॒ ।
स॒ऽजोष॑सा । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ वैयश्वस्य व्यश्वपुत्रस्य विश्वमनसोममाह्वानंश्रुतं शृणुतम् । उतो अपिच मे मदीयमस्य तदाह्वानं वेदथः आत्मीयतया जानीथः । अथ वरुणो मित्रः मित्रावरुणौच सजोषसा संगतौ सन्तौ अर्यमा एतन्नामकोदेवश्च मदीयमाह्वानं श्रुत्वा मह्यं धनादिकं प्रयच्छन्तु ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८