मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् १२

संहिता

यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी॑तस्य सू॒रिभि॑ः ।
अह॑रहर्वृषण॒ मह्यं॑ शिक्षतम् ॥

पदपाठः

यु॒वाऽद॑त्तस्य । धि॒ष्ण्या॒ । यु॒वाऽनी॑तस्य । सू॒रिऽभिः॑ ।
अहः॑ऽअहः । वृ॒ष॒णा॒ । मह्य॑म् । शि॒क्ष॒त॒म् ॥

सायणभाष्यम्

हे धिष्ण्या धिष्ण्यौ धिष्णार्हौ स्तुत्यौ वृषणा वृषणौ कामानां सेक्तारौ अश्विनौ सूरिभिः सुपांसुपोभवन्तीति चतुर्थ्यास्तृतीया सूरिभ्यःस्तोतृभ्यो यु- वादत्तस्य युवाभ्यां यत् स्तोतृभ्योदीयते तत् । तथा युवानीतस्य युवाभ्यां यत् स्तोतृभ्योनीयते तच्च धनादिकं अहरहः अहन्यहनि मत्द्यं विश्वमनसे स्तोत्रं कुर्वाणाय युवां शिक्षतं प्रयच्छतम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८