मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् १३

संहिता

यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व ।
स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥

पदपाठः

यः । वा॒म् । य॒ज्ञेभिः॑ । आऽवृ॑तः । अधि॑ऽवस्त्रा । व॒धूःऽइ॑व ।
स॒प॒र्यन्ता॑ । शु॒भे । च॒क्रा॒ते॒ इति॑ । अ॒श्विना॑ ॥

सायणभाष्यम्

अथ पूर्वोर्धर्चः परोक्षकृतः योमनुष्यः वां युवयोर्यज्ञेभिर्यजनैः पूजनैः यद्वा युष्मद्विषयैर्यागः आवृतः परिवृतोभवति । तत्रदृष्टान्तः-अधिवस्त्रा उपरि- निहितवस्त्रावधूः अन्येनवस्त्रेण यथाछादिता भवति तथा वृतोयदाभवति तदा सपर्यन्ता अभीष्टप्रदानेन तं परिचरन्तौ अश्विना अश्विनौ भवन्तौ तं मनुष्यं शुभे चक्राते मंगले धने कृतवन्तौ तं धनादियुक्तमकार्ष्टामित्यर्थः । योयुवाभ्यां हवींषि प्रयच्छति तं धनादियुक्तं कुरुतमित्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८