मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् १४

संहिता

यो वा॑मुरु॒व्यच॑स्तमं॒ चिके॑तति नृ॒पाय्य॑म् ।
व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ॥

पदपाठः

यः । वा॒म् । उ॒रु॒व्यचः॑ऽतमम् । चिके॑तति । नृ॒ऽपाय्य॑म् ।
व॒र्तिः । अ॒श्वि॒ना॒ । परि॑ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥

सायणभाष्यम्

हे अश्विनौ उरुव्यचस्तमं अतिशयेन ग्रहेषुभूतं व्याप्तं नृपाय्यं नेतृभ्यां युवाभ्यां पातव्यं सोमं योमनुष्यः वां युवाभ्यां तं सोमं दातुं चिकेतति भृशं जानाति तस्य वर्तिः वर्ततेत्रेति वर्तिर्गृहं अस्मयू अस्मान् पूजार्थं बहुवचनं विश्वमनसं मां कामयमानौ युवां परियातं सोमपानार्थं तस्य गृहं प्रत्या- यातम् । चिकेतति कितज्ञाने इत्यस्य यङ्लुगन्तस्य लेट्यडागमः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८