मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् १७

संहिता

यद॒दो दि॒वो अ॑र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे ।
श्रु॒तमिन्मे॑ अमर्त्या ॥

पदपाठः

यत् । अ॒दः । दि॒वः । अ॒र्ण॒वे । इ॒षः । वा॒ । मद॑थः । गृ॒हे ।
श्रु॒तम् । इत् । मे॒ । अ॒म॒र्त्या॒ ॥

सायणभाष्यम्

हे अश्विनौ दिवोद्युलोकस्य अदः सुपांसुलुगिति सप्तम्याः सुः अमुष्मिन्नर्णवे अपां स्थाने यद्यदि मदथः माद्यथः । वा अपिच इषः अन्नमिच्छतो यज- मानस्य गृहे यदि माद्यथः एवं चेत् हे अमर्त्या मरणधर्मरहितौ अमनुष्यौ वा अश्विनौ मे मदीयं स्तोत्रं श्रुतमित् युवां श्रृणुतमेव ममैव स्तोत्रं श्रुत्वा युवां माद्यतमित्यर्थः । यद्वा अदः स्तोत्रमिति संबध्यते ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९