मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २६, ऋक् १८

संहिता

उ॒त स्या श्वे॑त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना॑म् ।
सिन्धु॒र्हिर॑ण्यवर्तनिः ॥

पदपाठः

उ॒त । स्या । श्वे॒त॒ऽयाव॑री । वाहि॑ष्ठा । वा॒म् । न॒दीना॑म् ।
सिन्धुः॑ । हिर॑ण्यऽवर्तनिः ॥

सायणभाष्यम्

विश्वमनाऋषिः श्वेतयावरीनाम्र्योनद्यास्तीरे अश्विनावस्तौत् अनया नद्यपि स्तुतवतीत्याहउतापिच श्वेतयावरी श्वेतजला यातीति श्वेतयावरी की- दृशी सिन्धुः स्यन्दमाना हिरण्यवर्तनिः हिरण्मयस्वीयमार्गा हिरण्मयोभयकूला स्या एषा श्वेतयावरी नामिका नदीनामन्यासां नदीनां मध्ये वां यु- वां वाहिष्ठा स्तुत्या अतिशयेनागन्त्रीभवति एषापि युवां स्तौतीत्यर्थः । यद्वा एषानदी युवयोरथस्य वाहिष्ठा वोढृतमा सती प्रियकरीभवति यस्माद- हमस्यास्तीरेयुवामस्तुवमिति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९