मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् २

संहिता

आ प॒शुं गा॑सि पृथि॒वीं वन॒स्पती॑नु॒षासा॒ नक्त॒मोष॑धीः ।
विश्वे॑ च नो वसवो विश्ववेदसो धी॒नां भू॑त प्रावि॒तारः॑ ॥

पदपाठः

आ । प॒शुम् । गा॒सि॒ । पृ॒थि॒वीम् । वन॒स्पती॑न् । उ॒षसा॑ । नक्त॑म् । ओष॑धीः ।
विश्वे॑ । च॒ । नः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । धी॒नाम् । भू॒त॒ । प्र॒ऽअ॒वि॒तारः॑ ॥

सायणभाष्यम्

पूर्वार्धर्चेग्निःसंबोध्यते पश्वादिशब्दसन्द्रावात् । हे अग्ने नोस्मदीये यज्ञे पशुमग्नीपोमीयं पशुंप्रति आगासि आगच्छसि । गाङ् गतौ व्यत्ययेनपरस्मैपदम् । तथा पृथिवीमिदं देवसदनंप्रति । किच्च वनस्पतीन् मथनसाधनानरणिरूपान्वनस्पतीन्प्रति । तथा उषसा होतव्यत्वेनोषः कालं तथा नक्तं यष्टव्यत- या रात्रिंच प्रति । किच्च ओषधीः उषदाहे अत्र मादनकर्मा ओषन्ति माद्यन्ति अनेनेति ओषः सोमः । सधीयते निधीयते येष्विति ओषधयोग्रावाणः तान् प्रति आगच्छसि । यद्वा ओषध्यः फलपाकान्तालताः ताःप्रति आयाहि । अथवा हे स्तोतः पश्वादीनागासि समंतात्स्तुहि । कैगै शब्देइतिधातुः । ततः हे वसवः वासयितारोविश्ववेदसः सर्वधनाः सर्वज्ञानावा हे विश्वे सर्वेपि देवानोस्मदीयानां कर्मणां प्रावितारोभूत अनेनाग्निनासह यूयं प्रकर्षेण रक्षकाभवत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१