मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् ३

संहिता

प्र सू न॑ एत्वध्व॒रो॒३॒॑ऽग्ना दे॒वेषु॑ पू॒र्व्यः ।
आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा॑नुषु ॥

पदपाठः

प्र । सु । नः॒ । ए॒तु॒ । अ॒ध्व॒रः । अ॒ग्ना । दे॒वेषु॑ । पू॒र्व्यः ।
आ॒दि॒त्येषु॑ । प्र । वरु॑णे । धृ॒तऽव्र॑ते । म॒रुत्ऽसु॑ । वि॒श्वऽभा॑नुषु ॥

सायणभाष्यम्

पूर्व्यः पुरातनः पूर्व्यान् पुरातनानिन्द्रादीन् देवान्प्रति क्रियमाणत्वाद्यज्ञोपि पूर्व्यइत्युच्यते तादृशोमुख्योनोस्मदीयोध्वरोयज्ञः अग्रा सुपांसुलुगिति सप्तम्याडादेशः अग्नौ अग्निर्देवानां मुख्यत्वात् प्रथममभिहितः तस्मिन्नग्नौ सर्वेष्वन्येषु देवेषु च सु सुष्ठु प्रैतु प्रकर्षेण गच्छतु । देवान् विशिनष्टि आदि- त्येषु अदितेः पुत्रेषु इन्द्रादिषु धृतव्रते धृतकर्मणि वरुणेच विश्वभानुषु सर्वतोव्याप्ततेजस्केषु मरुत्सुच प्रैतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१