मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् ४

संहिता

विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः ।
अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥

पदपाठः

विश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः । भुव॑न् । वृ॒धे । रि॒शाद॑सः ।
अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥

सायणभाष्यम्

विश्ववेदसः सर्वतोव्याप्तधना बहुधनाइत्यर्थः तादृशा रिशादसः रिशतां हिंसतां शत्रूणामसितारः उपक्षपयितारोवा विश्वेहिष्म सर्वेखलु देवा मनवे षष्ठ्यर्थेचतुर्थी मनोः वृधे वर्धनाय भुवन् भवन्तु स्तोत्रे मनुष्याय धनं दत्वा तं वर्धयन्त्वित्याशास्ते । ततः हे विश्ववेदसः सर्वधनाः सर्वज्ञावादेवाः अरिष्टेभिः परैरहिंसितैः पायुभिः पालनैः सह अवृकं वृकःस्तेनस्तद्रहितं बाधारहितमित्यर्थः । तादृशं छर्दिर्गृहं नोस्मभ्यं यन्त प्रयच्छत शत्रून्हत्वा गृ- हेष्वस्माभिः कर्माणि कारयतेत्यर्थः । यन्तेति यमेर्लोटि छान्दसोविकरणस्यलुक् तस्य तबादेशः तेनानुनासिकलोपाभावः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१