व॒यं वो॑ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् ।
सु॒तसो॑मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ॥
व॒यम् । वः॒ । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒नु॒षक् ।
सु॒तऽसो॑मासः । व॒रु॒ण॒ । ह॒वा॒म॒हे॒ । म॒नु॒ष्वत् । इ॒द्धऽअ॑ग्नयः ॥
हे वरुण वरुणादयोदेवाः वृक्तबर्हिषऋत्विजोवयं आनुषक् स्नुगादिषु अनुषक्तं यथा भवति तथा हितप्रयसः प्रीणातीति प्रयोन्नं तेषु निहितहविष्काः- सन्तः वोयुष्मान् हवामहे एतानि हवींष्यादातुमाह्वयामः । कीदृशाः सुतसोमासः अभिषुतसोमाः इद्धाग्नयः आहुतिभिः समिद्धाग्नयो वयमाह्वया- मः । तत्रदृष्टान्तः-मनुष्वत् मनुर्यथा यज्ञे युष्मानाजुहाव तद्वत् ॥ ७ ॥