मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् ८

संहिता

आ प्र या॑त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी॑नया धि॒या ।
इन्द्र॒ आ या॑तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ॥

पदपाठः

आ । प्र । या॒त॒ । मरु॑तः । विष्णो॒ इति॑ । अश्वि॑ना । पूष॑न् । माकी॑नया । धि॒या ।
इन्द्रः॑ । आ । या॒तु॒ । प्र॒थ॒मः । स॒नि॒ष्युऽभिः॑ । वृषा॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥

सायणभाष्यम्

हे विश्वेदेवाः प्रयात प्रकर्षेणास्मदीयकर्मण्यागच्छत । हे मरुतः हे विष्णो स्वबलेन सर्वतोव्याप्त एतन्नामकदेव हे अश्विना अश्विनौ पूषन् स्तोतृन् ध- नादिना पोषयतीतिपूषा एतन्नामकदेव मरुदादयो हे देवाः । माकीनया अस्मच्छब्दात् युष्मदस्मदोरिति खत्रूशैषिकः एकवचने तवकममकाविति ममकादेशः वर्णलोपश्छान्दसः । मया क्रियमाणया धिया स्तुत्या सहास्मद्यज्ञं प्रत्यागच्छत । मरुदादेरामन्त्रितस्य वाक्यभेदादनिघातः । किच्च प्रथ- मोदेवानां मुख्यः सइन्द्रश्चायातु वृषा कामानां सेक्ता यइन्द्रः सनिष्युभिः सनिः संभजनं तदात्मनइच्छद्धिः स्तोतृभिः वृत्रहा अपामावरकस्य वृत्रासु- रस्य हन्तेति गृणे गृणते स्तूयते । गृशब्देइत्यस्य कर्मणि लिटि छांदसोविकरणः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२