मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् ११

संहिता

इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये॑ ।
उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या॑मिव ॥

पदपाठः

इ॒दा । हि । वः॒ । उप॑ऽस्तुतिम् । इ॒दा । वा॒मस्य॑ । भ॒क्तये॑ ।
उप॑ । वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । न॒म॒स्युः । आ । असृ॑क्षि । अन्या॑म्ऽइव ॥

सायणभाष्यम्

हे विश्ववेदसः सर्वधनाः हे देवा नमस्युरन्नमिच्छन् मनुरहं वोयुष्मद्विषयामुपस्तुतिमन्यामिव अदृष्टपूर्वामिवस्थिताःकैश्चिदप्यकृतामित्यर्थः तादृशी- मुपस्तुतिमिदाहि हिरवधारणे इदानीमेवोपासृक्षि उपासृजामि करोमीत्यर्थः । किमर्थं वोयुष्मत्संबन्धिनो वामस्य वननीयस्य इदा इदानीमेव भक्त- ये संभजनाय लाभायेत्यर्थः । असृक्षीति सृजेहुङिरूपम् पादादित्वादनिघातः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३