मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १२

संहिता

उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था॑दू॒र्ध्वो वरे॑ण्यः ।
नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्यः । वः॒ । स॒वि॒ता । सु॒ऽप्र॒नी॒त॒यः । अस्था॑त् । ऊ॒र्ध्वः । वरे॑ण्यः ।
नि । द्वि॒ऽपादः॑ । चतुः॑ऽपादः । अ॒र्थिनः॑ । अवि॑श्रन् । प॒त॒यि॒ष्णवः॑ ॥

सायणभाष्यम्

हे सुप्रणीतयः शोभनप्रणीतिः स्तुतिः शोभनप्रणयनाः शोभनस्तुतयोमरुतः वोयुष्माकं मध्ये ऊर्ध्वः ऊर्ध्वंगन्ता वरेण्यः सर्वैर्वरणीयः संभजनीयः स्यः ससविता सर्वस्य स्वकर्मणि प्रेरकः एतन्नामकः सदेवः यदा उदस्थात् स्वतेजसा उद्गतोभूत् तदा अर्थिनः द्विपादः पादद्वययुक्ताः पुरुषाः चतुष्पादः पादचतुष्टययुक्ताअश्वादयः पतयिष्णवः पतनशीलाः पक्षिणश्च न्यविश्रन् स्वस्वकार्येषु निविशन्ते । सूर्येउदिते केचनपुरुषा अग्निहोत्रादिकंकुर्वन्ति केचन देवता विषयं स्तोत्रं कुर्वन्ति पश्वादयस्तृणादिभक्षणार्थं सर्वत्रसच्चरन्ति । न्यविश्रन् निपूर्वाद्विशतेर्लङि व्यत्ययेन परस्मैपदं बहुलंछन्दसीतिरु- डागमः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३