मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १३

संहिता

दे॒वंदे॑वं॒ वोऽव॑से दे॒वंदे॑वम॒भिष्ट॑ये ।
दे॒वंदे॑वं हुवेम॒ वाज॑सातये गृ॒णन्तो॑ दे॒व्या धि॒या ॥

पदपाठः

दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । दे॒वम्ऽदे॑वम् । अ॒भिष्ट॑ये ।
दे॒वम्ऽदे॑वम् । हु॒वे॒म॒ । वाज॑ऽसातये । गृ॒णन्तः॑ । दे॒व्या । धि॒या ॥

सायणभाष्यम्

वयं देव्या द्योतमानया धिया स्तुत्या गृणन्तः स्तुवन्तः सन्तोवोयुष्माकंमध्ये देवंदेवं दीप्यमानं देवं अवसे कर्मरक्षणायाह्वयाम । अनुक्रमेणाह अभि- ष्टये अभिलषितप्राप्त्यर्थंच देवंदेवं वयमाह्वयाम ततोवाजसातये अन्नलाभाय हुवेम आह्वयाम ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३