मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् १६

संहिता

प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति ।
प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्ट॒ः सर्व॑ एधते ॥

पदपाठः

प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति ।
प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥

सायणभाष्यम्

हे मरुदादयः समनुष्यः क्षयं क्षियंति निवसन्त्यत्रेतिक्षयोगृहं तत् समनुष्यः प्रतिरते प्रकर्षेण वर्धयति । तिरतिर्वृद्धिकर्मा सएव महीर्महान्तिइषोन्ना- निच विवर्धयति । योमनुष्यः वराय वरणीयाय धनाय तदर्थं वोयुष्मभ्यं दाशति हवींषि प्रयच्छति धनादिभिर्वर्धयतीत्यन्वयः । किच्च धर्मणः ध्रिय- ते ऋत्विग्भिरिति धर्म कर्म युष्मद्विषयात्कमर्णः सकाशात् समनुष्यः प्रजाभिः पुत्रपौत्रादिभिः परि परितः सर्वतः प्रजायते प्रकर्षेणाविर्भवति । आ- त्मावैपुत्रनामासीतिश्रुतेः । ततः अरिष्ट अन्यैरहिंसितः सर्वोयुष्माकं हविःप्रदानात्सकलोजनः एधते धनादिभिर्वर्धते ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३