मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २७, ऋक् २०

संहिता

यद्वा॑भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे॑ ।
व॒यं तद्वो॑ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ॥

पदपाठः

यत् । वा॒ । अ॒भि॒ऽपि॒त्वे । अ॒सु॒राः॒ । ऋ॒तम् । य॒ते । छ॒र्दिः । ये॒म । वि । दा॒शुषे॑ ।
व॒यम् । तत् । वः॒ । व॒स॒वः॒ । वि॒श्व॒ऽवे॒द॒सः॒ । उप॑ । स्थे॒या॒म॒ । मध्ये॑ । आ ॥

सायणभाष्यम्

हे असुराः प्राज्ञाः संग्रामे आप्तानां क्षेप्तारोवा देवाः यद्वाभिपित्वे अस्मद्यज्ञं प्रति युष्माकं अभिप्राप्तौ ऋतं सत्यभूतं यज्ञं यते इणः शतरि रूपम् । ग- च्छते दाशुषे हवींषिदत्तवते यजमानाय यच्छर्दिः उछृदिर्दीप्तिदेवनयोः दीप्यतेनेनेति छर्दिस्तेजः यद्वा छर्दंति दीव्यन्तेत्रेति छर्दिर्गृहं तत् गृहं तेजोवा वियेम प्रयच्छथ यद्येवं यूयं कुरुथ तर्हि वयं हे वसवः स्तोतृणां धनादिभिराच्छादयितारः यद्वा शत्रूणां विवासयितारो विश्ववेदसः सर्वधनाःसर्वज्ञा- नावा हे देवाः वोयुष्मत्संबन्धि तत्कल्याणं गृहं षष्ठ्यर्थे द्वितीया भवद्धिः प्रत्तस्य गृहस्य मध्ये उपस्थेयाम उपतिष्ठेम युष्मान् हविर्भिः पूजयेम तिष्ठ- तेराशीर्लिङि लिङ्याशिष्यङित्यङ्प्रत्ययः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४