मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २८, ऋक् १

संहिता

ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो॑ ब॒र्हिरास॑दन् ।
वि॒दन्नह॑ द्वि॒तास॑नन् ॥

पदपाठः

ये । त्रिं॒शति॑ । त्रयः॑ । प॒रः । दे॒वासः॑ । ब॒र्हिः । आ । अस॑दन् ।
वि॒दन् । अह॑ । द्वि॒ता । अ॒स॒न॒न् ॥

सायणभाष्यम्

मनुराह त्रिंशति त्रिंशत्संख्यायाःपरः परस्तान्त्रयः त्रयस्त्रिंशद्देवताइत्यर्थः ये देवासोदेवाः बर्हिः अस्मदीययज्ञसंबंधिनि बर्हिषि हविःस्वीकरणार्थमा- सदन् आसीदन्तु । अह अथानन्तरं विदन् ते देवा अस्मान् हविषांप्रदातृनिति जानंतु । ततः द्विता द्विधा द्विप्रकारमसनन् अस्मभ्यं धनं पश्वादिकच्च प्रयच्छन्तु । यद्वा द्विता द्वैधं अनेन पौनःपुन्यं लक्ष्यते पुनःपुनरस्मभ्यं धनादिकं ददत्वित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५