मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २८, ऋक् २

संहिता

वरु॑णो मि॒त्रो अ॑र्य॒मा स्मद्रा॑तिषाचो अ॒ग्नयः॑ ।
पत्नी॑वन्तो॒ वष॑ट्कृताः ॥

पदपाठः

वरु॑णः । मि॒त्रः । अ॒र्य॒मा । स्मद्रा॑तिऽसाचः । अ॒ग्नयः॑ ।
पत्नी॑ऽवन्तः । वष॑ट्ऽकृताः ॥

सायणभाष्यम्

वरुणोवरणीयः संभजनीयः मित्रः स्तोतृणां यष्टृणांच धनादिदानेन मित्रभूतःअर्यमास्तोत्रकारिणोधनं प्रापयन् यद्वा सततं गच्छन् एतन्नामकास्त्रयो- देवाः स्मद्रातिषाचः स्मत् सुमत् शोभना रातिर्हविःप्रदानं येषामस्तीति स्मद्रातयोयजमानाः तान् सचन्ते धनादिप्रदानेन सेवन्ते इति यथोक्ताः । यद्वा कल्याणं यथा भवति तथा हविषां दातृन् सचन्तइति । ते तादृशाःपत्नीवन्तोदेवपत्नीसहिता अग्नयः अंगनशीलाः नानाविधाअग्नयः वषट्कृताः मया सोमस्याग्नेयी हीवौषडित्यादिना स्वाहाकृताः सुहुताइत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५