मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २८, ऋक् ३

संहिता

ते नो॑ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् ।
पु॒रस्ता॒त्सर्व॑या वि॒शा ॥

पदपाठः

ते । नः॒ । गो॒पाः । अ॒पा॒च्याः । ते । उद॑क् । ते । इ॒त्था । न्य॑क् ।
पु॒रस्ता॑त् । सर्व॑या । वि॒शा ॥

सायणभाष्यम्

ते वरुणादयोदेवाः सर्वया सर्वेण विशा अनुचरवर्गेण सह अपाच्याः अपाची प्रतीची ततोनोस्माकं गोपाः गोपायितारोभवन्तु तएव उदक् उदीच्याः अच्चेर्लुगिति पच्चम्यर्थे विहितस्यास्तातेर्लुक् ततोप्यस्माकं रक्षकाभवन्तु । इत्थेति शब्देन ऊर्ध्वां दिशं दक्षिणां च निर्दिशति इत्थमनेन पूर्वोक्तेन प्रका- रेण ऊर्ध्वाया दक्षिणस्याश्च दिशः तेदेवाः अस्माकं पालयितारोभवन्तु तथा न्यक् नीच्यादिशः अत्रापि पूर्ववदस्तातेर्लुक् अधःस्थादेवाअपि अस्माकं त्रातारोभवन्तु । किंच पुरस्तात्प्राच्यादिशश्च तेदेवाअस्माकं गोपायितारोभवन्तु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५