मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २८, ऋक् ४

संहिता

यथा॒ वश॑न्ति दे॒वास्तथेद॑स॒त्तदे॑षां॒ नकि॒रा मि॑नत् ।
अरा॑वा च॒न मर्त्य॑ः ॥

पदपाठः

यथा॑ । वश॑न्ति । दे॒वाः । तथा॑ । इत् । अ॒स॒त् । तत् । ए॒षा॒म् । नकिः॑ । आ । मि॒न॒त् ।
अरा॑वा । च॒न । मर्त्यः॑ ॥

सायणभाष्यम्

देवाद्योतमानाः सर्वेदेवाः यथा वशन्ति यथा कामयन्ते वशकान्तौ सम्प्रसारणाच्चेति पूर्वरूपस्य छन्दसिविकल्पितत्वाद्यणादेशः । तथेत् यथा उश- न्ति तथैव असत् तद्धवत्येव । तदेवाह एषां देवानां तत्कामनं नकिर्नकश्चिदपि मिनत् हिनस्ति मीङ् हिंसायां लेटिरूपम् मीनातेर्निगमइतिह्रस्वत्वम् । कथं देवानामभिलषितं तथाभवतीतिचेत् तदाह-अरावा यदि देवाः कस्यचिदप्यदातारं मनुष्यं कामयेरन् तदा अरावा अदाता चनेत्यप्यर्थे अदाता- पि मर्त्योमनुष्यः उशड्योदेवेभ्योहवींषि प्रयच्छति तस्मात्तेषां यत्कामनं तत्तथा भवत्येवेत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५