मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् १

संहिता

ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य॑ङ्क्ते हिर॒ण्यय॑म् ॥

पदपाठः

ब॒भ्रुः । एकः॑ । विषु॑णः । सू॒नरः॑ । युवा॑ । अ॒ञ्जि । अ॒ङ्क्ते॒ । हि॒र॒ण्यय॑म् ॥

सायणभाष्यम्

अत्र दशानामृचां किंचित्पदलिंगात् पृथक् देवताः अत्र प्रथमायां बभ्रुः इत्यनेन सोमोभिधीयते । सोम्यंबभ्रुमालभेतेरयादिषुदृष्टत्वात् । बभ्रुर्बभ्रुवर्णः सर्वलतादिषु परिपक्वः । यद्वा डुभृञ् धारणपोषणयोः कुर्भ्रश्चेति कुप्रत्ययः सर्वस्य सुधामयैः किरणैः तावदुद्गते चन्द्रमसि दुःखोपशमनानि पुष्टानि- खलु । तादृशः विषुणः विष्वगच्चनः सूनरः सुष्ठु रात्रीणां नेता रात्रयश्चन्द्रनेतृकाः खलु । एतादृशोयुवा प्रतिदिवसमाविर्भूतत्वात्तरुणः एकोदेवः सोमः हिरण्ययं हिरण्मयं अच्चि अभिव्यज्यते प्रकाश्यतेनेनेति अच्चि आभरणं अभिव्यक्तिसाधनं कुंडलमुकुटादिकं स्वशरीरमंक्ते अभिव्यच्चयति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६