मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् २

संहिता

योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ॥

पदपाठः

योनि॑म् । एकः॑ । आ । स॒सा॒द॒ । द्योत॑नः । अ॒न्तः । दे॒वेषु॑ । मेधि॑रः ॥

सायणभाष्यम्

अत्र योनिमिति लिंगादग्निरुच्यते । अग्नयेगृहपतयेइत्यादिषु दृष्टत्वात् । देवेषु देवानामन्तर्मध्ये द्योतनः स्वतेजसा दीप्यमानो मेधिरोमेधावी अथवा मेधाकांक्षिणां स्तोतृणां मेधा दातृत्वेन मेधायुक्तः एवंविधएकोग्निः एवं स्थानभूतमाहवनीयादिकं आससाद हविःस्वीकरणार्थमासीदति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६