मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् ३

संहिता

वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥

पदपाठः

वाशी॑म् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आ॒य॒सीम् । अ॒न्तः । दे॒वेषु॑ । निऽध्रु॑विः ॥

सायणभाष्यम्

देवेष्वन्तर्देवानांमध्ये द्योतमानः निध्रुविः नेश्चले स्थाने वर्तमानः यद्वा नितरां गमनमस्यास्तीति निध्रुविः सर्वदागच्छन् अथवा संग्रामेषु शत्रूणां पु- रतोतिशयेन स्थैर्यवान् एतादृशः एकस्त्वष्टृनामकोदेवः आयसीं अयोमयधारां वाशीं वाश्रृशब्दे शब्दयत्याक्रन्दयति शत्रूननयेति वाशी तक्षणसाधनं कुठारः तं स्वकीयहस्ते बिभर्ति धारयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६