मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् ४

संहिता

वज्र॒मेको॑ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ॥

पदपाठः

वज्र॑म् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आऽहि॑तम् । तेन॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥

सायणभाष्यम्

अत्र वज्रलिंगादिन्द्रोदेवता एकइन्द्रः आहितं स्वकीयहस्ते निहितं वज्रमेतन्नामकमायुधं बिभर्ति धत्ते सएवेन्द्रस्तेन निहितेन वज्रेण वृत्राणि अपामा- वरकाणि रक्षांसि पापानि वा जिघ्नते भृशं हन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६