मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् ६

संहिता

प॒थ एकः॑ पीपाय॒ तस्क॑रो यथाँ ए॒ष वे॑द निधी॒नाम् ॥

पदपाठः

प॒थः । एकः॑ । पी॒पा॒य॒ । तस्क॑रः । य॒था॒ । ए॒षः । वे॒द॒ । नि॒ऽधी॒नाम् ॥

सायणभाष्यम्

पथइतिलिंगेन पूषा निगद्यते । संपूषन्नध्वनस्तिरेत्यादिषुदृष्टत्वात् । एकः पूषनामकोदेवः पथः मार्गान् पीपाय प्यायतिर्वर्धनकर्मापि अत्र रक्षणार्थः ये अग्निहोत्रादिकर्मकुर्वन्ति तेषां स्वर्गमार्गम् । ये दुष्कृतं कर्म कुर्वन्ति तेषां यातनामार्गं च रक्षति । उभयेषां मार्गविपर्ययोयथा नभवति तथा पालय- तीत्यर्थः । एषसोयंपूषा विधीनां पृथिव्यां निहितानि धनानि वेद वेत्ति । ज्ञात्वा स्तोतृणां तानि ददातीत्यर्थः । तत्रदृष्टान्तः-तस्करो यथा चोरः प- थिगच्छतां पुरुषाणां धनहरणार्थं मार्गं रक्षति तथाच सचोरः गृहे निहितानि ज्ञात्वा तदाहृत्य तस्य सहायेभ्योयथा तानि ददाति तद्वत् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६