मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् ७

संहिता

त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद॑न्ति ॥

पदपाठः

त्रीणि॑ । एकः॑ । उ॒रु॒ऽगा॒यः । वि । च॒क्र॒मे॒ । यत्र॑ । दे॒वासः॑ । मद॑न्ति ॥

सायणभाष्यम्

उरुगायोविचक्रमइति पदलिंगाद्विष्णुरुच्यते उरुगायः उरुभिर्बहुभिर्गातव्यः यद्वा बहुषु देशेषु गंता बहुकीर्तिर्वा सर्वान् शत्रून् स्व सामर्थ्येन शब्दय- त्याक्रन्दयतीतिवा उरुगायः एतादृशएकोसहायो विष्णुः त्रीणि पदानि भुवनानि विचक्रमे साधु पादेन विक्रान्तवान् वेःपादविहरणे इति क्रमतेः आत्मनेपदम् । यत्र येषु लोकेषु देवासः इन्द्रादयोदेवाः मदन्ति यजमानदत्तैर्हविर्भिर्माद्यन्ति तानि विचक्रमइत्यन्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६