मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् ८

संहिता

विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ॥

पदपाठः

विऽभिः॑ । द्वा । च॒र॒तः॒ । एक॑या । स॒ह । प्र । प्र॒वा॒साऽइ॑व । व॒स॒तः॒ ॥

सायणभाष्यम्

एकयासहेति लिंगात् अश्विनावभिधीयेते द्वा द्वौ द्वित्वसंख्योपेतावश्विनौ विभिः वीगत्यादिषु क्विप् छान्दसोह्रस्वः गमनसाधनैः अश्वैः चरतः सच्चरे- ते किच्च इमावश्विनौ एकया सूर्याख्यया ताभ्यां स्वयं वृतया स्त्रिया सह प्रवसतः प्रवासं सर्वत्रगमनं कुरुतः । प्रवासे दृष्टान्तः-प्रवासेव यथा प्रवासि- नौ द्वौ पुरुषौ एकया स्त्रिया सह प्रवसतः तद्वत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६