मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २९, ऋक् ९

संहिता

सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा॑ स॒र्पिरा॑सुती ॥

पदपाठः

सदः॑ । द्वा । च॒क्रा॒ते॒ इति॑ । उ॒प॒ऽमा । दि॒वि । स॒म्ऽराजा॑ । स॒र्पिर्ऽआ॑सुती॒ इति॑ स॒र्पिःऽआ॑सुती ॥

सायणभाष्यम्

सम्राजाविति लिंगेन मित्रावरुणावभिधीयेते उपमा उपमौ परस्परं स्वकांत्योपमानभूतौ यद्वा उपमीयते आभ्यां सर्वमिति उपमौसर्वस्य एतावेव सम्राजौ सम्यग्दीप्यमानौ सर्पिरासुती सर्पिर्घृतमाभ्यामासूयते इति सर्पिरासुती घृतहविष्कौ द्वा द्वौ मित्रावरुणौ दिवि द्युलोके सदः सीदन्त्यत्रेति सदः स्थानं तच्चक्राते अकार्ष्टाम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६