मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३०, ऋक् १

संहिता

न॒हि वो॒ अस्त्य॑र्भ॒को देवा॑सो॒ न कु॑मार॒कः ।
विश्वे॑ स॒तोम॑हान्त॒ इत् ॥

पदपाठः

न॒हि । वः॒ । अस्ति॑ । अ॒र्भ॒कः । देवा॑सः । न । कु॒मा॒र॒कः ।
विश्वे॑ । स॒तःऽम॑हान्तः । इत् ॥

सायणभाष्यम्

देवासोदेवाः वोयुष्माकंमध्ये अर्भकोनह्यस्ति शिशुर्नास्ति तथा न कुमारकः युष्माकं मध्ये कुमारोपिनास्ति । किन्तु सर्वे यूयं सवयसोनित्यतरुणा- भवथ । एतदेव प्रतिपादयति विश्वे सर्वे देवाः यूयं सतोमहान्तइत् सर्वस्माद्विद्यमानात् पृथिव्यामपिये महान्तः ते सतोमहान्तइत्युच्यन्ते तस्माद्यु- ष्माकमर्भको कुमारोपि नास्तीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७