मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३०, ऋक् २

संहिता

इति॑ स्तु॒तासो॑ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ ।
मनो॑र्देवा यज्ञियासः ॥

पदपाठः

इति॑ । स्तु॒तासः॑ । अ॒स॒थ॒ । रि॒शा॒द॒सः॒ । ये । स्थ । त्रयः॑ । च॒ । त्रिं॒शत् । च॒ ।
मनोः॑ । दे॒वाः॒ । य॒ज्ञि॒या॒सः॒ ॥

सायणभाष्यम्

हे रिशादसः रिशतां हिंसतामसितारो हे मनोर्यज्ञियासः मनुनामकस्य मम यज्ञार्हा हे देवाः ये यूयं त्रयः त्रिसंख्याकाः त्रिंशच्च त्रिंशत्संख्याकाः त्रय- स्त्रिंशद्देवताःस्थ भवथ अभूत । ते यूयमिति इत्थमनेन प्रकारेण स्तुतासः असथ मया मनुना स्तुताभवथ अस्तेर्लेटि छान्दसोलुगभावः । यद्वा असथे- तिकान्त्यर्थः इत्थं स्तुतायूयं हवींषि कामयध्वम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७