मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३०, ऋक् ३

संहिता

ते न॑स्त्राध्वं॒ ते॑ऽवत॒ त उ॑ नो॒ अधि॑ वोचत ।
मा नः॑ प॒थः पित्र्या॑न्मान॒वादधि॑ दू॒रं नै॑ष्ट परा॒वतः॑ ॥

पदपाठः

ते । नः॒ । त्रा॒ध्व॒म् । ते॒ । अ॒व॒त॒ । ते । ऊं॒ इति॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।
मा । नः॒ । प॒थः । पित्र्या॑त् । मा॒न॒वात् । अधि॑ । दू॒रम् । नै॒ष्ट॒ । प॒रा॒ऽवतः॑ ॥

सायणभाष्यम्

हे देवाः ते यूयं नोस्मान् त्राध्वं बाधकेभ्यो रक्षोभ्यस्त्रायध्वं ते यूयं अवत धनादिप्रदानैरस्मान्त्रक्षत तेएवदेवा नोस्मानधिवोचत अधिकंभवन्तः कर्म- कारिणो धनादिमन्तश्च भवन्त्विति यूयं ब्रूत । किंच हे देवाः मानवात् पित्र्यात् मनुः सर्वेषां पिता तताआगतात् परावतः पिता मनुर्दूरंमार्गं चक्रे त- स्मात्पथोमार्गान्नोस्मान्मानैष्ट मा नयत अपनयनं माकुरुतेत्यर्थः सर्वदा ब्रह्मचर्याग्निहोत्रादिकर्माणि येन मार्गेण भवन्ति तमेवास्मान्नयत । किन्तु दूरं यएतद्मतिरिक्तोविप्रकृषृमार्गोस्ति तस्मादधि अधिकमित्यर्थः अस्मानपनयत ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७