मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३०, ऋक् ४

संहिता

ये दे॑वास इ॒ह स्थन॒ विश्वे॑ वैश्वान॒रा उ॒त ।
अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा॑य यच्छत ॥

पदपाठः

ये । दे॒वा॒सः॒ । इ॒ह । स्थन॑ । विश्वे॑ । वै॒श्वा॒न॒राः । उ॒त ।
अ॒स्मभ्य॑म् । शर्म॑ । स॒ऽप्रथः॑ । गवे॑ । अश्वा॑य । य॒च्छ॒त॒ ॥

सायणभाष्यम्

हे देवासोदेवाः उतापिच वैश्वानराः विश्वे सर्वे नरः कर्मनेतारोध्वर्य्वादयोयस्य सविश्वानरो यज्ञः तस्मिन्सोमादिहवींषि स्वीकर्तुंभवाः प्रादुर्भूताःभ- वार्थे अण् प्रत्ययः यद्वा वैश्वानरोग्निः देवानां तन्मुखत्वात् तस्य संबंधिनोविश्वेसर्वेयेदेवायूयं इहास्मिन्नस्मदीये यज्ञे स्थन हवींष्यादातुं भवथ । ततः सप्रथः प्रथप्रख्याने सर्वतः प्रसिद्धं सर्वत्रपृथुतमंवा शर्म श्रृणाति हिनस्ति दुःखमिति शर्म सुखं तदस्मभ्यं प्रयच्छतं तथा गवे अस्मदीयेभ्यो यज्ञसाध- नभूतेभ्यो गोभ्यः अश्वाय शर्म सुखं प्रदत्त ॥ ४ ॥

पच्चमेनुवाके द्वादशसूक्तानि तत्र योयजातीत्यष्टादशर्चं प्रथमं सूक्तं वैवस्वतमनुरृषिः नवमीचतुर्दश्यावनुष्टुभौ पच्चदश्याद्याश्चतस्रः पंक्तयः दशमीपा- दनिचृत् त्रयः सप्तकाः पादनिचृदिति तल्लक्षणात् शिष्टाएकादशप्राग्वत्सप्रपरिभाषाया गायत्र्यः आद्यासु चतसृषु यज्ञः ततोयजमानप्रशंसाच स्तूयते अतस्तद्देवताकाः यादंपती इत्याद्यासु पच्चम्यादिषु दंपतीप्रशस्येते अतस्तद्देवताकाः अवशिष्टासु नवसु दंपत्योराशिषः प्रतिपाद्यन्ते अतस्ताएवदेव- ताः । तथाचानुक्रम्यते-योयजातिद्मूनात्रेज्यास्तवोयजमानप्रशंसाच येत्यादिपच्चदम्पत्योः शिष्टास्तदाशिषोनुष्टुप् चतुष्पङ्क्त्यन्तं नवम्यनुष्टुप् दश- मीपादनिचृदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७