मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् १

संहिता

यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।
ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥

पदपाठः

यः । यजा॑ति । यजा॑ते । इत् । सु॒नव॑त् । च॒ । पचा॑ति । च॒ ।
ब्र॒ह्मा । इत् । इन्द्र॑स्य । चा॒क॒न॒त् ॥

सायणभाष्यम्

योयजमानः सकृद्यजाति यागंकरोति हविर्भिर्देवान्पूजयति सदेवेभ्योलब्धधनादिकःसन् यजातइत् पुनरभीष्टप्राप्तये देवेभ्योहवींषिप्रयच्छत्येव । तथा सएव यजमानःसुनवच्च सोमाभिषवं करोतिच सएव पचातिच पशुपुरोडाशादिकं पचतिच सर्वत्र यजादिषु लेट्यडागमः सयजमानः इन्द्रस्य ब्रह्मा ब्रह्माणि इदवधारणे इन्द्रसम्बन्धीनिस्तोत्राण्येव चाकनत् पुनःपुनः कामयते कनतेः कान्त्यर्थाद्यङ्लुकि अभ्यासत्वं छान्दसम् ततोलेट्यडागमः । अ- त्रयागे यजमानोधनादिलभतइति यज्ञप्रशंसा सएवदृष्टफलः सन् सोमाभिषवादीन्करोतीति यजमानप्रशंसा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८