मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् २

संहिता

पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् ।
पादित्तं श॒क्रो अंह॑सः ॥

पदपाठः

पु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् ।
पात् । इत् । तम् । श॒क्रः । अंह॑सः ॥

सायणभाष्यम्

योयजमानः अस्मै इन्द्राय पशुपुरोळाशं तथा आशिरं तृतीयसवने गॊक्षीरेणमिश्रितं सोममस्मै ररते प्रयच्छति रातेर्लटि शपः श्लुः अडागमः । शक्रः समर्थः सइन्द्रः तं यष्टारं अंहसः पापात् तद्रूपाद्रक्षसोवा पात् इदवधारणे अपादेव रक्षत्येव पातेर्लुङिरूपम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८