मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् ५

संहिता

या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।
देवा॑सो॒ नित्य॑या॒शिरा॑ ॥

पदपाठः

या । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । सु॒नु॒तः । आ । च॒ । धाव॑तः ।
देवा॑सः । नित्य॑या । आ॒ऽशिरा॑ ॥

सायणभाष्यम्

अत्र यजने दंपत्योः स्तुतिः हे देवासोदेवाः समनसा समनसौ कर्मणि समानमनस्कौ या यौ दम्पती यज्ञकारिणौ जायापती सुनुतः सोमाभिषवं कुरु- तः यौ दम्पती ततस्तमभिषुतं सोमं आधावतश्च दशापवित्रेण शोधयतः धावुगतिशुद्ध्योः तथा नित्यया यत्रतृतीयसवने सोमोस्ति तत्र आश्रयणद्र- व्यं गोक्षीरमस्त्येव तस्मान्नित्यसंबंधेन आशिरा आश्रयणेन गोक्षीरेण संयुतं सोमं यौ प्रयच्छतः तावन्नादीन् प्राप्नुतइति उत्तरत्रसम्बन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८