मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् ६

संहिता

प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते ।
न ता वाजे॑षु वायतः ॥

पदपाठः

प्रति॑ । प्रा॒श॒व्या॑न् । इ॒तः॒ । स॒म्यञ्चा॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ।
न । ता । वाजे॑षु । वा॒य॒तः॒ ॥

सायणभाष्यम्

ता तौ देवेभ्यो हविषां दातारौ दंपती प्राशव्यान् अशभोजने प्रपूर्वस्यास्य औणादिकोभावे उण् प्रत्ययः प्राशुर्भक्षणं तस्मै साधून् हितान्वा अन्नादी- न्प्रतीतः प्रतिगच्छतः यद्वा प्राशितव्यान् अत्रवर्णलोपः तावेव सम्यंचा सम्यंचौ समीचीनौ संगतौ बर्हिर्यज्ञं आशाते आनशाते । तत्र द्रव्यैर्व्याप्नुतः तस्मात्तौ यष्टारौ भार्यापती वाजेषु देवैर्दत्तेषु अन्नेषुन वायतःवयतिर्गत्यर्थः न गच्छतः सर्वदा अन्नसहितौ तिष्ठातामित्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९