मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् ७

संहिता

न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।
श्रवो॑ बृ॒हद्वि॑वासतः ॥

पदपाठः

न । दे॒वाना॑म् । अपि॑ । ह्नु॒तः । सु॒ऽम॒तिम् । न । जु॒घु॒क्ष॒तः॒ ।
श्रवः॑ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥

सायणभाष्यम्

एतौ दम्पती देवानां इन्द्रादीनां न अपिह्नुतः अपलापं न कुरुतः अपह्नवोपलापः देवेभ्योहविः प्रदास्यामइति प्रतिज्ञाय पुनरदानमपलापनं ह्नुङ् अपनये । कथं नापलपन्तीत्यवसीयते तदाह सुमतिं युष्मदीयां शोभनां मतिं न जुगुक्षतः जुघुक्षतः न संवरीतुमिच्छतः संवारणमाच्छादनं न छादय- तइत्यर्थः किन्तु स्तुतिं कुरुतः । गुहूसंवरणे सनिग्रहगुहोश्चेतीट्प्रतिषेधः ढत्वषत्वभावौ संहिताकालेभष् भावोनास्ति छान्दसत्वात् । किञ्च बृहत् देवे- भ्योदीयमानत्वात् महत् श्रवः श्रवइत्यन्ननाम महदन्नं विवासतः युष्मभ्यं प्रयच्छतः विवासतिः परिचरणकर्मा दानमपिच परिचरणमेव । देवैर्दत्तम- न्नं घृतादिभिर्मिश्रीकृत्य पुनः पुनर्यजतइत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९