मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३१, ऋक् ८

संहिता

पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।
उ॒भा हिर॑ण्यपेशसा ॥

पदपाठः

पु॒त्रिणा॑ । ता । कु॒मा॒रिणा॑ । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒तः॒ ।
उ॒भा । हिर॑ण्यऽपेशसा ॥

सायणभाष्यम्

पुत्रिणा पुत्रवन्तौ तत्रापि कुमारिण षोडशवर्षदेशीयपुत्रवन्तौ हिरण्यपेशसा हिरण्मयैराभरणैरलंकृतरूपौ उभा उभौ ता तौ दंपती विश्वं सर्वमायु- रायुष्यं व्यश्नुतः व्याप्नुतः यज्ञेन तयोः पुत्रादिकं धनमायुश्च संभवतीत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९